Pages

Search This Website

July 8, 2015

समासा: द्विधा 

1- केवलसमास: ।
2- विशेषसमास: ।

केवलसमास: - तत्‍पुरुषादिसंज्ञाविनिर्मुक्‍त: समाससंज्ञामात्रयुक्‍त: केवलसमास: । 
अर्थात् यस्‍य समासस्‍य नास्ति नाम कश्चित् स: समास: केवलसमास: इति अभिधीयते (ज्ञायते) । 
विशेषसमास: - विशेषसमास: चतुर्धा -
1- अव्‍ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्‍ययीभाव: । 
         यस्मिन् पूर्वपदस्‍य प्राधान्‍यं भवति स: अव्‍ययीभावसमास: इति अभिधीयते ।  अत्र एक: इतोपि अवधेय: ।  अव्‍ययीभावे प्राय: पूर्वपदम् अव्‍ययमपि भवति एव ।  यथा उपगंगम् ।  अत्र पूर्वपद उप इत्‍यस्‍य प्राधान्‍यमेव ।   पुनश्‍च उप शब्‍द: अव्‍ययम् अपि अस्ति ।  अव्‍ययं किं नाम अव्‍ययं ते शब्‍दा: येषां रूपपरिवर्तनं कदापि न भवति  ।  यथा उप, इति, अथ इत्‍यादया: ।

2- तत्‍पुरुष समास: - प्राय: उत्‍तरपदार्थप्रधान: तत्‍पुरुष: ।
       यस्मिन् शब्‍दे उत्‍तरपदस्‍य प्राधान्‍यं भवति स: तत्‍पुरुष समास: ।  यथा कर्मकुशल: ।  अत्र कुशलपदस्‍य प्राधान्‍यमस्ति अत: अत्र तत्‍पुरुष समास: इति अस्ति ।

3- बहुब्रीहि समास: - प्राय: अन्‍यपदार्थप्रधान: बहुब्रीहि: । 
       यस्मिन् पदे पूर्वोत्‍तरद्वयोरपि प्राधान्‍यं न भवति अपितु कस्‍यचित् अन्‍यस्‍य एव शब्‍दस्‍य प्राधान्‍यं भवति तत्र बहुब्रीहि समास: भवति ।  यथा पीतक्षीर: ।  अत्र निश्‍चयेन तस्मिन् विषये वार्ता चलति य: दुग्‍धं पीतवान् अत: द्वयोरपि दत्‍तशब्‍दयो: प्राधान्‍यं नास्ति अपितु अन्‍यस्‍य प्राधान्‍यं प्राप्‍यते अत: अत्र बहुब्रीहि समास: अस्ति ।

4-द्वन्‍द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्‍द्व: । 
यत्र उभयशब्‍दयो: प्राधान्‍यं भवति स: समास: द्वन्‍द्व: इति कथ्‍यते ।  यथा - रामकृष्‍णौ ।  अस्मिन् पदे राम: च कृष्‍ण: च इति बोध: भवति ।  अत: अत्र द्वन्‍द्व समास: अस्ति ।

अद्य एतावदेव अलम् ।  अग्रिमलेखे एतेषां चतुर्णां समासानां भेदाना: विषये पठिस्‍याम: । 
तावत् नमो नम: 

do preparation online for TET exam with kachhua...Kachhua.com can help you to prepare well in competitive exam by providing online material , video lectures and regular online tests(provided with Auto result and Daily solution)...

For do best preparation of TET2 for competitive exam click the below link...



सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामया: 
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभागभवेत् ।।